Episode notes

जातस्य ध्रुवकुल एव तुङ्गकीर्ते- रङ्गस्य व्यजनि सुत: स वेननामा । यद्दोषव्यथितमति: स राजवर्य- स्त्वत्पादे निहितमना वनं गतोऽभूत् ॥१॥

पापोऽपि क्षितितलपालनाय वेन: पौराद्यैरुपनिहित: कठोरवीर्य: । सर्वेभ्यो निजबलमेव सम्प्रशंसन् भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥२॥

सम्प्राप्ते हितकथनाय तापसौघे मत्तोऽन्यो भुवनपतिर्न कश्चनेति । त्वन्निन्दावचनपरो मुनीश्वरैस्तै: शापाग्नौ शलभदशामनायि वेन: ॥३॥

तन्नाशात् खलजनभीरुकैर्मुनीन्द्रै- स्तन्मात्रा चिरपरिरक्षिते तदङ्गे । त्यक्ताघे परिमथितादथोरुदण्डा- द्दोर्दण्डे परिमथिते त्वमाविरासी: ॥४॥

विख्यात: पृथुरिति तापसोपदिष्टै: सूताद्यै: परिणुतभाविभूरिवीर्य: । वेनार्त्या कबलितसम्पदं धरित्री- माक्रान्तां निजधनुषा समामकार्षी: ॥५॥

भूयस्तां निजकुलमुख्यवत्सयुक्त्यै- र्देवाद्यै: समुचितचारुभाजनेषु । अन्नादीन्यभिलषितानि यानि तानि स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥६॥

आत्मानं यजति मखैस्त्वयि त्रिधाम- न्न ... 

 ...  Read more
Keywords
#teaching#narayaniyam#slokam#shlokas#Nārāyaṇīyaṃ#narayaneeyam#learntochant#learn narayaniyam#guruvayurappan#Ekadasi#Krishna#Unnikrishnan#Guruvayur#