Episode notes
मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्ता त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् । महदनुगमलभ्या भक्तिरेवात्र साध्या कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥१॥
प्रकृतिमहदहङ्काराश्च मात्राश्च भूता- न्यपि हृदपि दशाक्षी पूरुष: पञ्चविंश: । इति विदितविभागो मुच्यतेऽसौ प्रकृत्या कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥२॥
प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयं यदि तु सजति तस्यां तत् गुणास्तं भजेरन् । मदनुभजनतत्त्वालोचनै: साऽप्यपेयात् कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥३॥
विमलमतिरुपात्तैरासनाद्यैर्मदङ्गं गरुडसमधिरूढं दिव्यभूषायुधाङ्कम् । रुचितुलिततमालं शीलयेतानुवेलं कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥४॥
मम गुणगणलीलाकर्णनै: कीर्तनाद्यै- र्मयि सुरसरिदोघप्रख्यचित्तानुवृत्ति: । भवति परमभक्ति: सा हि मृत्योर्विजेत्री कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥५॥
अहह बहुलहिंसासञ्चितार्थै: कुटुम्बं प्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाली । विशति ह ...