Episode notes
समनुस्मृततावकाङ्घ्रियुग्म: स मनु: पङ्कजसम्भवाङ्गजन्मा । निजमन्तरमन्तरायहीनं चरितं ते कथयन् सुखं निनाय ॥१॥
समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा । धृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समा: सिषेवे ॥२॥
गरुडोपरि कालमेघक्रमं विलसत्केलिसरोजपाणिपद्मम् । हसितोल्लसिताननं विभो त्वं वपुराविष्कुरुषे स्म कर्दमाय ॥३॥
स्तुवते पुलकावृताय तस्मै मनुपुत्रीं दयितां नवापि पुत्री: । कपिलं च सुतं स्वमेव पश्चात् स्वगतिं चाप्यनुगृह्य निर्गतोऽभू: ॥४॥
स मनु: शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या । भवदीरितनारदोपदिष्ट: समगात् कर्दममागतिप्रतीक्षम् ॥५॥
मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ । भवदर्चननिवृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥६॥
स पुनस्त्वदुपासनप्रभावा- द्दयिताकामकृते कृते विमाने । वनिताकुलसङ्कुलो नवात्मा व्यहरद्देवपथेषु देवहूत्या ॥७॥
शतवर्षमथ व्यतीत्य सोऽयं नव कन्या: समवाप्य धन्यरूपा: । व ...