Episode notes

पृथोस्तु नप्ता पृथुधर्मकर्मठ: प्राचीनबर्हिर्युवतौ शतद्रुतौ । प्रचेतसो नाम सुचेतस: सुता- नजीजनत्त्वत्करुणाङ्कुरानिव ॥१॥

पितु: सिसृक्षानिरतस्य शासनाद्- भवत्तपस्याभिरता दशापि ते पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरम् ॥२॥

तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृत: । प्रकाशमासाद्य पुर: प्रचेतसा- मुपादिशत् भक्ततमस्तव स्तवम् ॥३॥

स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समा: । भवत्सुखास्वादरसादमीष्वियान् बभूव कालो ध्रुववन्न शीघ्रता ॥४॥

तपोभिरेषामतिमात्रवर्धिभि: स यज्ञहिंसानिरतोऽपि पावित: । पिताऽपि तेषां गृहयातनारद- प्रदर्शितात्मा भवदात्मतां ययौ ॥५॥

कृपाबलेनैव पुर: प्रचेतसां प्रकाशमागा: पतगेन्द्रवाहन: । विराजि चक्रादिवरायुधांशुभि- र्भुजाभिरष्टाभिरुदञ्चितद्युति: ॥६॥

प्रचेतसां तावदयाचतामपि त्वमेव कारुण्यभराद्वरानदा: । भवद्विचिन्ताऽपि शिवाय देहिनां भवत्वसौ रुद्रनुतिश्च कामदा ॥७॥

अवाप्य कान्तां ... 

 ...  Read more
Keywords
#teaching#narayaniyam#slokam#shlokas#Nārāyaṇīyaṃ#narayaneeyam#learntochant#learn narayaniyam#guruvayurappan#Ekadasi#Krishna#Unnikrishnan#Guruvayur#