Episode notes
उत्तानपादनृपतेर्मनुनन्दनस्य जाया बभूव सुरुचिर्नितरामभीष्टा । अन्या सुनीतिरिति भर्तुरनादृता सा त्वामेव नित्यमगति: शरणं गताऽभूत् ॥१॥
अङ्के पितु: सुरुचिपुत्रकमुत्तमं तं दृष्ट्वा ध्रुव: किल सुनीतिसुतोऽधिरोक्ष्यन् । आचिक्षिपे किल शिशु: सुतरां सुरुच्या दुस्सन्त्यजा खलु भवद्विमुखैरसूया ॥२॥
त्वन्मोहिते पितरि पश्यति दारवश्ये दूरं दुरुक्तिनिहत: स गतो निजाम्बाम् । साऽपि स्वकर्मगतिसन्तरणाय पुंसां त्वत्पादमेव शरणं शिशवे शशंस ॥३॥
आकर्ण्य सोऽपि भवदर्चननिश्चितात्मा मानी निरेत्य नगरात् किल पञ्चवर्ष: । सन्दृष्टनारदनिवेदितमन्त्रमार्ग- स्त्वामारराध तपसा मधुकाननान्ते ॥४॥
ताते विषण्णहृदये नगरीं गतेन श्रीनारदेन परिसान्त्वितचित्तवृत्तौ । बालस्त्वदर्पितमना: क्रमवर्धितेन निन्ये कठोरतपसा किल पञ्चमासान् ॥५॥
तावत्तपोबलनिरुच्छ्-वसिते दिगन्ते देवार्थितस्त्वमुदयत्करुणार्द्रचेता: । त्वद्रूपचिद्रसनिलीनमते: पुरस्ता- दाविर्बभूविथ विभो गरुडाधिरूढ: ॥६॥