Note sull'episodio

हिरण्याक्षं तावद्वरद भवदन्वेषणपरं चरन्तं सांवर्ते पयसि निजजङ्घापरिमिते । भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनि: शनैरूचे नन्दन् दनुजमपि निन्दंस्तव बलम् ॥१॥

स मायावी विष्णुर्हरति भवदीयां वसुमतीं प्रभो कष्टं कष्टं किमिदमिति तेनाभिगदित: । नदन् क्वासौ क्वासविति स मुनिना दर्शितपथो भवन्तं सम्प्रापद्धरणिधरमुद्यन्तमुदकात् ॥२॥

अहो आरण्योऽयं मृग इति हसन्तं बहुतरै- र्दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन् । महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा पयोधावाधाय प्रसभमुदयुङ्क्था मृधविधौ ॥३॥

गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो नियुद्धेन क्रीडन् घटघटरवोद्घुष्टवियता । रणालोकौत्सुक्यान्मिलति सुरसङ्घे द्रुतममुं निरुन्ध्या: सन्ध्यात: प्रथममिति धात्रा जगदिषे ॥४॥

गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो गदाघाताद्भूमौ झटिति पतितायामहह! भो: । मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥५॥

तत: शूलं क ... 

 ...  Leggi dettagli
Parole chiave
narayaneeyamslokamlearntochantNārāyaṇīyaṃshlokaslearn narayaniyamteaching narayaniyamguruvayurappanEkadasiDasakam 13dashakam 13