Notas del episodio
मध्योद्भवे भुव इलावृतनाम्नि वर्षे गौरीप्रधानवनिताजनमात्रभाजि । शर्वेण मन्त्रनुतिभि: समुपास्यमानं सङ्कर्षणात्मकमधीश्वर संश्रये त्वाम् ॥१॥
भद्राश्वनामक इलावृतपूर्ववर्षे भद्रश्रवोभि: ऋषिभि: परिणूयमानम् । कल्पान्तगूढनिगमोद्धरणप्रवीणं ध्यायामि देव हयशीर्षतनुं भवन्तम् ॥२॥
ध्यायामि दक्षिणगते हरिवर्षवर्षे प्रह्लादमुख्यपुरुषै: परिषेव्यमाणम् । उत्तुङ्गशान्तधवलाकृतिमेकशुद्ध- ज्ञानप्रदं नरहरिं भगवन् भवन्तम् ॥३॥
वर्षे प्रतीचि ललितात्मनि केतुमाले लीलाविशेषललितस्मितशोभनाङ्गम् । लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं तस्या: प्रियाय धृतकामतनुं भजे त्वाम् ॥४॥
रम्ये ह्युदीचि खलु रम्यकनाम्नि वर्षे तद्वर्षनाथमनुवर्यसपर्यमाणम् । भक्तैकवत्सलममत्सरहृत्सु भान्तं मत्स्याकृतिं भुवननाथ भजे भवन्तम् ॥५॥
वर्षं हिरण्मयसमाह्वयमौत्तराह- मासीनमद्रिधृतिकर्मठकामठाङ्गम् । संसेवते पितृगणप्रवरोऽर्यमा यं तं त्वां भजामि भगवन् परचिन्मयात्मन् ॥६॥
किञ्चोत् ...