Notas del episodio

प्रियव्रतस्य प्रियपुत्रभूता- दाग्नीध्रराजादुदितो हि नाभि: । त्वां दृष्टवानिष्टदमिष्टिमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ॥१॥

अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञ: स्वतुल्यं सुतमर्थ्यमान: । स्वयं जनिष्येऽहमिति ब्रुवाण- स्तिरोदधा बर्हिषि विश्वमूर्ते ॥२॥

नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभू: ॠषभाभिधान: । अलोकसामान्यगुणप्रभाव- प्रभाविताशेषजनप्रमोद: ॥३॥

त्वयि त्रिलोकीभृति राज्यभारं निधाय नाभि: सह मेरुदेव्या । तपोवनं प्राप्य भवन्निषेवी गत: किलानन्दपदं पदं ते ॥४॥

इन्द्रस्त्वदुत्कर्षकृतादमर्षा- द्ववर्ष नास्मिन्नजनाभवर्षे । यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद्व्यदधा: सुवर्षम् ॥५॥

जितेन्द्रदत्तां कमनीं जयन्ती- मथोद्वहन्नात्मरताशयोऽपि । अजीजनस्तत्र शतं तनूजा- नेषां क्षितीशो भरतोऽग्रजन्मा ॥६॥

नवाभवन् योगिवरा नवान्ये त्वपालयन् भारतवर्षखण्डान् । सैका त्वशीतिस्तव शेषपुत्र- स्तपोबलात् भूसुरभूयमीयु: ॥७॥

उक्त्वा  ... 

 ...  Leer más
Palabras clave
#teaching#narayaniyam#slokam#shlokas#Nārāyaṇīyaṃ#narayaneeyam#learntochant#learn narayaniyam#guruvayurappan#Ekadasi#Krishna#Unnikrishnan#Guruvayur#