Notas del episodio
अजामिलो नाम महीसुर: पुरा चरन् विभो धर्मपथान् गृहाश्रमी । गुरोर्गिरा काननमेत्य दृष्टवान् सुधृष्टशीलां कुलटां मदाकुलाम् ॥१॥
स्वत: प्रशान्तोऽपि तदाहृताशय: स्वधर्ममुत्सृज्य तया समारमन् । अधर्मकारी दशमी भवन् पुन- र्दधौ भवन्नामयुते सुते रतिम् ॥२॥
स मृत्युकाले यमराजकिङ्करान् भयङ्करांस्त्रीनभिलक्षयन् भिया । पुरा मनाक् त्वत्स्मृतिवासनाबलात् जुहाव नारायणनामकं सुतम् ॥३॥
दुराशयस्यापि तदात्वनिर्गत- त्वदीयनामाक्षरमात्रवैभवात् । पुरोऽभिपेतुर्भवदीयपार्षदा: चतुर्भुजा: पीतपटा मनोरमा: ॥४॥
अमुं च संपाश्य विकर्षतो भटान् विमुञ्चतेत्यारुरुधुर्बलादमी । निवारितास्ते च भवज्जनैस्तदा तदीयपापं निखिलं न्यवेदयन् ॥५॥
भवन्तु पापानि कथं तु निष्कृते कृतेऽपि भो दण्डनमस्ति पण्डिता: । न निष्कृति: किं विदिता भवादृशा- मिति प्रभो त्वत्पुरुषा बभाषिरे ॥६॥
श्रुतिस्मृतिभ्यां विहिता व्रतादय: पुनन्ति पापं न लुनन्ति वासनाम् । अनन्तसेवा तु निकृन्तति द्वयी- मि ...